स्थापनी

सुधाव्याख्या

स्थापयति । ल्युट् (३.३.११३) । ‘स्थापनं रोपणे, पुंसि वने, पाठौषधौ स्त्रियाम् (इति मेदिनी) ॥


प्रक्रिया

धातुः - ष्ठा गतिनिवृत्तौ


स्था - धात्वादेः षः सः 6.1.64, निमित्तापाये नैमित्तकस्याप्यपायः ।
स्था + णिच् + ल्युट् - हेतुमति च 3.1.26, कृत्यल्युटो बहुलम् 3.3.113
स्था + पुक् + णिच् + ल्युट् - अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ 7.3.36
स्थाप् + इ + ल्युट् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, चुटू 1.3.7
स्थाप् + इ + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
स्थाप् + इ + अन - युवोरनाकौ 7.1.1
स्थाप् + अन - णेरनिटि 6.4.51
स्थापन + ङीष् - टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15
स्थापन + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
स्थापन् + ई - यस्येति च 6.4.148
स्थापनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
स्थापनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
स्थापनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68