अमरकोशः


श्लोकः

माध्यं कुन्दं रक्तकस्तु बन्धूको बन्धुजीवकः । सहा कुमारी तरणिरम्लानस्तु महासहा ॥ ७३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 माघ्य माघ्यम् पुंलिङ्गः, नपुंसकलिङ्गः माघे भवम् । यत् तद्धितः अकारान्तः
2 कुन्द कुन्दम् पुंलिङ्गः, नपुंसकलिङ्गः कुं भुवं दायति, द्यति वा । तत्पुरुषः समासः अकारान्तः
3 रक्तक रक्तकः पुंलिङ्गः रक्तपुष्पत्वाद्रक्तः । कन् तद्धितः अकारान्तः
4 बन्धूक बन्धूकः पुंलिङ्गः बध्नाति चित्तम् । ऊक उणादिः अकारान्तः
5 बन्धुजीवक बन्धुजीवकः पुंलिङ्गः बन्धुरिव जीवं जलमस्या ॥ बहुव्रीहिः समासः अकारान्तः
6 सहा सहा स्त्रीलिङ्गः आतपं सहते । अच् कृत् आकारान्तः
7 कुमारी कुमारी स्त्रीलिङ्गः कुमारयति । ईकारान्तः
1 तरणि तरणिः स्त्रीलिङ्गः तरत्यनया । अनि उणादिः इकारान्तः
9 अम्लान अम्लानः पुंलिङ्गः न म्लायति स्म । तत्पुरुषः समासः अकारान्तः
10 महासहा महासहा स्त्रीलिङ्गः महती चासौ सहा च । तत्पुरुषः समासः आकारान्तः