कुमारी

सुधाव्याख्या

कुमारीव । यद्वा कुमारयति । ‘कुमार क्रीडायाम् (चु० उ० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । यद्वा कामयते । ‘कमु कान्तौ’ (भ्वा० आ० से०) । ‘कमेः किदुच्चोपधायाः' (उ० ३.१३८) इत्यारन् । ‘वयसि प्रथमे' (४.१.२०) इति ङीप् । 'कुमारी रामतरुण्यां नवमाल्ये नदीभिदि । कन्यापराजितागौरीजम्बूद्वीपेषु च स्मृता' (इति विश्वः) ॥