अम्लानः

सुधाव्याख्या

अम्लेति । न म्लायति स्म । ‘गत्यर्थाकर्मक-' (३.४.७२) इति क्तः । 'संयोगादेरातो धातोर्यण्वत:' (८.२.४३) इति नत्वम् । 'अम्लानस्त्वमले झिंटीभेदे' इति हैमः । ‘अम्लानो महासहायां ना वाच्यलिङ्गस्तु निर्मले' इति मेदिनी ॥


प्रक्रिया