महासहा

सुधाव्याख्या

महती चासौ सहा च । ‘सन्महत्-' (२.१.६१) इति तत्पुरुषः । ‘आन्महतः-' (६.३.४३) इत्यात्वम् । — महतो विमर्दस्य सहा वा - इति मुकुटः । तन्न । असामानाधिकरण्येनात्वाप्रसङ्गात् । ‘महासहा माषपर्ण्यामम्लानेऽपि च योषिति' (इति मेदिनी) ।