कुन्दम्

सुधाव्याख्या

कुं भुवं दायति, द्यति वा । ‘दैप् शोधने' (भ्वा० प० अ०) । ‘दो अवखण्डने' (दि० प० अ०) वा । ‘आतः' (३.२.३) इति कः । पृषोदरादिः (६.३.१०९) । कुणति । ‘कुण शब्दे (तु० प० से०) । ‘अब्दादयश्च' (उ० ४.९८) इति दो वा । यत्तु-तत्पुरुषे (६.३.१४) इति द्वितीयाया अलुक् इति मुकुटः । तन्न । अलौकिकविग्रहे द्वितीयाया अप्रवेशात् । षष्ठ्याः प्रवेशाच्च । माघ्यः कुन्दः कुरुण्टकः' इति पुंस्काण्डे रत्नकोषात् पुंस्त्वमपि । ‘कुन्दो माघ्येऽस्त्री मुकुन्दभ्रमिनिध्यन्तरेषु ना' (इति मेदिनी) ॥