बन्धूकः

सुधाव्याख्या

बध्नाति चित्तम् । ‘बन्ध बन्धने' (क्र्या० प० अ०) । ‘उलूकादयश्च’ (उ० ४.४१) इत्यूकः । ‘बन्धूकं बन्धुजीवे स्याद्बन्धूकः पीतसारके' (इति मेदिनी) ॥