अमरकोशः


श्लोकः

कालस्कन्धस्तमाल: स्यात्तापिच्छोऽप्यथ सिन्दुकः । सिन्दुवारेन्द्रसुरसा निर्गुण्डीन्द्राणिकेत्यपि ॥ ६८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कालस्कन्ध कालस्कन्धः पुंलिङ्गः काल: स्कन्धोऽस्य । बहुव्रीहिः समासः अकारान्तः
2 तमाल तमालः पुंलिङ्गः ताम्यति । कालन् उणादिः अकारान्तः
3 तापिच्छ तापिच्छः पुंलिङ्गः तापिनं छादयति । तत्पुरुषः समासः अकारान्तः
4 सिन्दुक सिन्दुकः पुंलिङ्गः स्यन्दते । कन् तद्धितः अकारान्तः
5 सिन्दुवार सिन्दुवारः पुंलिङ्गः सिन्दुं वृणोति, वारयति वा । तत्पुरुषः समासः अकारान्तः
6 इन्द्रसुरस इन्द्रसुरसः पुंलिङ्गः इन्द्रस्य सुरसः । तत्पुरुषः समासः अकारान्तः
7 निर्गुण्डी निर्गुण्डी स्त्रीलिङ्गः निर्गुडति । कृत् ईकारान्तः
8 इन्द्राणिका इन्द्राणिका स्त्रीलिङ्गः इन्द्रस्य जन्या । कन् तद्धितः आकारान्तः