सिन्दुकः

सुधाव्याख्या

अथेति । स्यन्दते । ‘स्यन्दू प्रस्रवणे' (भ्वा० अ० से०) । ‘स्यन्देः सम्प्रसारणं धश्च' (उ० १.११) इत्युः। बाहुलकादत्र धो न ॥ मुकुटस्तु धमिच्छति । स्वार्थे ‘संज्ञायां कन्’ (५.३.७५) । तदुक्तम् - ‘सिन्दुवार: श्वेतपुष्प: सिन्दुक: सिन्धुवारितः । नीलपुष्पः शीतसहो निर्गुण्डी नीलसिन्धुकः' इति ॥