इन्द्राणिका

सुधाव्याख्या

इन्द्रस्य जन्या । ‘इन्द्रवरुण-' (४.१.४९) इति ङीषानुकौ, जन्यजनकभावलक्षणोऽपि च पुंयोगस्तत्र गृह्यते । –इन्द्रमानयति । अनेर्ण्यन्तात् 'कर्मण्यण्' (३.२.१) । ङीप् (४.१.१५) । कन् (५.३.७५) ह्रस्वत्वम् (७.४.१३) च इति मुकुटः । इन्द्राणी करणे स्त्रीणां पौलोमीसिन्दुवारयोः' इति मेदिनी ॥


प्रक्रिया

इन्द्र + ङस् + आनुक् - इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् 4.1.49
इन्द्र + आनुक् - सुपो धातुप्रातिपदिकयोः 2.4.71
इन्द्र + आन् - उपदेशेऽजनुनासिक इत् 1.3.2, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
इन्द्र् + आन् - यस्येति च 6.4.148
इन्द्रान् - अकः सवर्णे दीर्घः 6.1.101
इन्द्राण् - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
इन्द्राण् + ङीष् - इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवनमातुलाचार्याणामानुक् 4.1.49
इन्द्राण् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
इन्द्राणी + कन् - संज्ञायां कन् 4.3.147
इन्द्राणी + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
इन्द्राणी + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
इन्द्राणीक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
इन्द्राणीक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
इन्द्राणिका - अकः सवर्णे दीर्घः 6.1.101
इन्द्राणिका - केऽणः 7.4.13
इन्द्राणिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
इन्द्राणिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इन्द्राणिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68