निर्गुण्डी

सुधाव्याख्या

निर्गुडति । ‘गुड रक्षायाम् (तु० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । पृषोदरादिः (६.३.१०९) । गुडाद्वेष्टनान्निर्गता, इति स्वामी । गौरादिः (४.१.४१) । मुकुटस्तु - गुडिः' अपठितोऽपि भूवादेराकृतिगणत्वाद्द्रष्टव्यः – इत्याह । 'निर्गुण्डी नीलशेफाल्यां सिन्दुवारद्रुमेऽपि च इति मेदिनी ॥