तापिच्छः

सुधाव्याख्या

तापिनं छादयति । ‘छद अपवारणे (चु० उ० से०) । ‘कर्मण्यण्' (३.२.१) । पृषोदरादिः (६.३.१०९) । यत्तु–‘तत्पुरुषे कृति-' (६.३.१४) इत्यमोऽलुकि ‘तापिंछ:'- इति मुकुटः । तन्न । अलौकिकविग्रहेऽमः प्रवेशाभावात् ॥