अमरकोशः


श्लोकः

एरण्ड उरुबूकश्च रुचकश्चित्रकश्च सः । चञ्चुः पञ्चाङ्गुलो मण्डवर्धमानव्यडम्बकाः ॥ ५१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 एरण्ड एरण्डः पुंलिङ्गः आ ईरयति वायुम् । अण्डच् बाहुलकात् अकारान्तः
2 उरुवूक उरुवूकः पुंलिङ्गः उरुं महान्तं वायुं वायति । तत्पुरुषः समासः अकारान्तः
3 रुचक रुचकः पुंलिङ्गः रोचते । क्वुन् उणादिः अकारान्तः
4 चित्रक चित्रकः पुंलिङ्गः चित्रयति । क्वुन् उणादिः अकारान्तः
5 चञ्चु चञ्चुः पुंलिङ्गः चञ्चति । बाहुलकात् उकारान्तः
6 पञ्चाङ्गुल पञ्चाङ्गुलः पुंलिङ्गः पञ्चाङ्गुलयोऽस्य । बहुव्रीहिः समासः अकारान्तः
7 मण्ड मण्डः पुंलिङ्गः मण्डयति । अच् कृत् अकारान्तः
8 वर्धमान वर्धमानः पुंलिङ्गः वर्धते । चानश् कृत् अकारान्तः
9 व्यडम्बक व्यडम्बकः पुंलिङ्गः व्यडं मलमम्बयति । तत्पुरुषः समासः अकारान्तः