मण्डः

सुधाव्याख्या

मण्डयति । ‘मडि भूषायाम्' (भ्वा० प० से०) । णिच् (३.१.२६) । पचाद्यच् (३.१.१३४) । ‘आमलक्यां स्त्रियां मण्ड एरण्डे मोचपिच्छयोः' इति रभसः । ‘मण्ड: पञ्चाङ्गुले शाके पुंसि क्लीबं तु मस्तुनि । आमलक्या स्त्रियां मण्डाथास्त्रियां सारपिच्छयोः' ॥ अकारप्रश्लेषोऽपि । ‘अमण्डपञ्चाङ्गुलवर्धमानगन्धर्वहस्ताः' इति हारावली ॥ आकारादिरपि । 'गन्धर्वहस्तकोऽमण्ड आमण्डो व्याघ्रपुच्छकः' इति तारपालः ॥ ‘आदण्डः' इत्येके । (दीर्घदण्डत्वात्) - इति स्वामी ॥


प्रक्रिया