चञ्चुः

सुधाव्याख्या

चञ्चति । ‘चञ्चु गत्यर्थः (भ्वा० प० से०) । यत्तु - ‘चकि, मकि गतौ' इति धातूपन्यसनं मुकुटस्य । तच्चिन्त्यम् । बाहुलकादुः । ‘चञ्चुस्रोट्यां स्त्रियां पुंसि गोनाडीके व्यडम्बके ॥