उरुवूकः

सुधाव्याख्या

उरुं महान्तं वायुं वायति । ‘ओवै शोषणे' (भ्वा० प० अ०) । ‘उलूकादयश्च ' (उणा० ४.४१) इत्यूकः । ‘खपुरः क्रमुको, निचुलो हिज्जल, एरण्ड उरुबूकः' इति बोपालितः । ‘उरुवूकोरुबुकव्याघ्रदलाश्च' इति रभसः ॥