पञ्चाङ्गुलः

सुधाव्याख्या

पञ्चाङ्गुलयोऽस्य । ‘तत्पुरुषस्याङ्गुलेः -'(५.४.८६) इत्यच् । यत्तु–‘द्वित्रिभ्याम्-'(५.४.१०२) इत्ययच् इति मुकुटेनोक्तम् । तच्चिन्त्यम् ॥


प्रक्रिया

पञ्च + जस् + अङ्गुली + जस् - अनेकमन्यपदार्थे 2.2.24
पञ्च + अङ्गुली - सुपो धातुप्रातिपदिकयोः 2.4.71
पञ्चाङ्गुली - अकः सवर्णे दीर्घः 6.1.101
पञ्चाङ्गुली + सु + अच् - तत्पुरुषस्याङ्गुलेः संख्याव्ययादेः 5.4.86
पञ्चाङ्गुली + अच् - सुपो धातुप्रातिपदिकयोः 2.4.71
पञ्चाङ्गुली + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पञ्चाङ्गुल् + अ - यस्येति च 6.4.148
पञ्चाङ्गुल + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पञ्चाङ्गुल + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पञ्चाङ्गुल + रु - ससजुषो रुः 8.2.66
पञ्चाङ्गुल + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
पञ्चाङ्गुलः - खरवसानयोर्विसर्जनीयः 8.3.15