अमरकोशः


श्लोकः

वीथ्यालिरावलिः पङ्क्तिः श्रेणी लेखास्तु राजयः । वन्या वनसमूहे स्यादङ्कुरोऽभिनवोद्भिदि ॥ ४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वीथि वीथी स्त्रीलिङ्गः विथ्यते । इन् उणादिः इकारान्तः
2 आलि आलिः स्त्रीलिङ्गः आलति । इन् उणादिः इकारान्तः
3 आवलि आवलिः स्त्रीलिङ्गः आ वलति । इन् उणादिः इकारान्तः
4 पङ्क्ति पङ्क्तिः स्त्रीलिङ्गः पञ्चते । क्तिच् कृत् इकारान्तः
5 श्रेणी श्रेणी स्त्रीलिङ्गः श्रीयते । नि उणादिः ईकारान्तः
6 लेखा लेखा स्त्रीलिङ्गः लिख्यते । अङ् कृत् आकारान्तः
7 राजि राजी स्त्रीलिङ्गः राजति । इन् उणादिः इकारान्तः
8 वन्या वन्या स्त्रीलिङ्गः वनानां समूहः । तद्धितः आकारान्तः
9 अङ्कुर अङ्कुरः पुंलिङ्गः अङ्क्यते । उद्भिद् = उद्भिनत्ति भुवम् । अकारान्तः
10 अभिनवोद्भिद् अभिनवोद्भिद् पुंलिङ्गः दकारान्तः