वीथी

सुधाव्याख्या

वीति । विथ्यते । विथृ याचने’(भ्वा० आ० से०) । 'इगुपधात्कित्-’ (उ ४.१२) इतीन् । बाहुलकाद्दीर्घः । 'कृदिकारात्-’ (ग ४.१.४५) इति वा ङीष् । 'वीथी वर्त्मनि पङ्क्तौ च गृहाङ्गे नाट्यरूपके' इति हैमः ।