राजी

सुधाव्याख्या

राजति । ‘राजृ दीप्तौ’(भ्वा० उ० से०) । इन् (उ ४.११८) । ‘वपिवसि (उ ४.१२५) इतीञ् वा । ‘राजी रेखायां पङ्गौ च' इति हैमः ॥ द्वे निरन्तरपङ्क्त्यपङ्क्तिसाधारणायाः ।