लेखा

सुधाव्याख्या

लेखा इति । लिख्यते । लिख अक्षरविन्यासे’(तु० प० से०) । भिदादौ (३.३.१०४) पाठादङ्गुणौ । 'लेखो लेख्ये दैवते च लेखा राज्यां लिपावपि' इति हैमः ॥ रलयोरेकत्वस्मरणात् रेखा’अपि ॥