अङ्कुरः

सुधाव्याख्या

अङ्कुर इति । अङ्क्यते । ‘अकि लक्षणे' (भ्वा० आ० से०) । मन्दिवाशिमथि-' (उ १.३८) इत्युरच् । ‘अङ्कुरो रोम्णि सलिले रुधिरेऽभिनवोद्गमे’इति हैम: । खर्जूरादित्वात् ऊरः । अङ्कुरश्चाङ्करः प्रोक्तः’इति हलायुधः ।


प्रक्रिया

धातुः - अकिँ लक्षणे


अक् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अ + नुम् + क् - इदितो नुम् धातोः 7.1.58
अ + न् + क् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अंक् - नश्चापदान्तस्य झलि 8.3.24
अङ्क् - अनुस्वारस्य ययि परसवर्णः 8.4.58
अङ्क् + उरच् - मन्दिवाशिमथिचतिचङ्क्यङ्किभ्य उरच् (१.३८) । उणादिसूत्रम् ।
अङ्क् + उर - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अङ्कुर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अङ्कुर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अङ्कुर + रु - ससजुषो रुः 8.2.66
अङ्कुर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अङ्कुरः - खरवसानयोर्विसर्जनीयः 8.3.15