अभिनवोद्भिद्

सुधाव्याख्या

उद्भिनत्ति भुवम् । भिदिर् विदारणे' (रु० उ० अ०) । ‘सत्सूद्विष (३.२.६१) इति क्विप् । अभिनवश्चासावुद्भिच्च ॥


प्रक्रिया

धातुः - भिदिँर् विदारणे


भिद् - इर इत्संज्ञा वक्तव्या (1.3.7) । वार्तिकम् ।
उत् + भिद् + क्विप् - सत्सूद्विषद्रुहदुहयुजविदभिदच्छिदजिनीराजामुपसर्गेऽपि क्विप्‌ 3.2.61
उत् + भिद् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
उत् + भिद् - वेरपृक्तस्य 6.1.67
उद्भिद् - झलां जशोऽन्ते 8.2.39
अभिनव + सु + उद्भिद् + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
अभिनव + उद्भिद् - सुपो धातुप्रातिपदिकयोः 2.4.71
अभिनवोद्भिद् - आद्गुणः 6.1.87
अभिनवोद्भिद् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अभिनवोद्भिद् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अभिनवोद्भिद् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68