अमरकोशः


श्लोकः

गालवः शाबरो लोध्रस्तिरीटस्तिल्वमार्जनौ । आम्रचूतो रसालोऽसौ सहकारोऽतिसौरभः ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गालव गालवः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
2 शावर शावरः पुंलिङ्गः अण् तद्धितः अकारान्तः
3 रोध्रः रोध्रः पुंलिङ्गः रन् बाहुलकात्
4 तिरीट तिरीटः पुंलिङ्गः कीटन् उणादिः अकारान्तः
5 तिल्व तिल्वः पुंलिङ्गः वन् उणादिः अकारान्तः
6 मार्जन मार्जनः पुंलिङ्गः ल्युट् कृत् अकारान्तः
7 आम्र आम्रः पुंलिङ्गः क् उणादिः अकारान्तः
8 चूत चूतः पुंलिङ्गः क्त कृत् अकारान्तः
9 रसाल रसालः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
10 सहकार सहकारः पुंलिङ्गः अकारान्तः