मार्जनः

सुधाव्याख्या

मार्ष्ट्यऽनेन । ‘मृजू शुद्धौ' (अ० प० से०) । ल्युट् (३.३.११७) । नन्द्यादिल्युः (३.१.१३४) — इति मुकुटः । तन्न । तस्य कर्तरि विधानात् । ‘मार्जनं न द्वयोर्मार्ष्टौ पुंसि स्याल्लोध्रशाखिनि' ॥ षट् श्वेतलोध्रस्य । आद्यौ श्वेतलोध्र, शेषा रक्तलोध्र इति स्वामी ॥