शावरः

सुधाव्याख्या

शबराणामयम् । ‘तस्येदम्' (४.३.१२०) इत्यण् । ‘शाबरी शूकशिम्ब्यां स्यात् पुंसि पापापराधयोः । लोध्रे च' इति तालव्यादिः ॥ दन्त्यादिरपि । ‘सावराख्यापराधे च लोध्रे पापे च पठ्यते इति दन्त्यादात्रजयः ॥