सहकारः

सुधाव्याख्या

सह कारयति मेलयति द्वन्द्वम् । अच् (३.१.१३४) ॥ अतिशयितं सौरभमस्य ॥


प्रक्रिया

धातुः - डुकृञ् करणे


कृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
सह + सु + कृ + णिच् - हेतुमति च 3.1.26, उपपदमतिङ् 2.2.19
सह + कृ + णिच् - सुपो धातुप्रातिपदिकयोः 2.4.71
सह + कृ + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सह + कार् + इ - अचो ञ्णिति 7.2.115
सह + कार् + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
सह + कार् + अच् - णेरनिटि 6.4.51
सह + कार् + अ - हलन्त्यम् 1.3.3 तस्य लोपः 1.3.9
सहकार + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सहकार + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सहकार + रु - ससजुषो रुः 8.2.66
सहकार + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सहकारः - खरवसानयोर्विसर्जनीयः 8.3.15