गालवः

सुधाव्याख्या

गालेति । गालवस्यापत्यम् । ‘ऋष्यन्धक-' (४.१.११४) इत्यण् । गालं नेत्रस्रवं वायति । ‘ओवै शोषणे' (भ्वा० प० अ०) । ‘आतोऽनुप-' (३.२.३) इति को वा । ‘गालवो मुनिभेदे स्याल्लोध्रवृक्षे च कीर्तितः ॥