लोध्रः

सुधाव्याख्या

रुणद्धि । ‘रुधिर् आवरणे' (रु० उ० अ०) । बाहुलकाद्रन् । ‘शूद्रादयः' इति रन् - इति मुकुटः । तन्न । तादृशसूत्राभावात् । कपिलिकादिः (वा० ८. २.१८) । (रोध्रोऽपि लत्वाभावे । ‘रोध्रो ना गालवे क्लीबमपराधे च किल्विषे' इति मेदिनी) ॥


प्रक्रिया

धातुः - रुधिँर् आवरणे


रुध् - इर इत्संज्ञा वक्तव्या (1.3.7) । वार्तिकम् ।
रुध् + रन् - बाहुलकात् ।
रुध् + र - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
रोध् + र - पुगन्तलघूपधस्य च 7.3.86
लोध् + र - कपिलकादीनां संज्ञाच्छन्दसोर्वेति वाच्यम् (8.2.18) । वार्तिकम् ।
लोध्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
लोध्र + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लोध्र + रु - ससजुषो रुः 8.2.66
लोध्र + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
लोध्रः - खरवसानयोर्विसर्जनीयः 8.3.15