अमरकोशः


श्लोकः

पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः । तिनिशे स्यन्दनो नेमी रथद्रुरतिमुक्तकः ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पारिभद्र पारिभद्रः पुंलिङ्गः पारि पारं गतं भद्रमस्य बहुव्रीहिः समासः अकारान्तः
2 निम्बतरु निम्बतरुः पुंलिङ्गः उकारान्तः
3 मन्दार मन्दारः पुंलिङ्गः मन्दा अरा यस्य । बहुव्रीहिः समासः अकारान्तः
4 पारिजातक पारिजातकः पुंलिङ्गः पारि पारं गतं जातं जन्मास्य । बहुव्रीहिः समासः अकारान्तः
5 तिनिश तिनिशः पुंलिङ्गः अतिशयेन नेशति । कृत् अकारान्तः
6 स्यन्दन स्यन्दनः पुंलिङ्गः स्यन्दते । युच् उणादिः अकारान्तः
7 नेमिन् नेमी पुंलिङ्गः नयति । मि उणादिः नकारान्तः
8 रथद्रु रथद्रुः पुंलिङ्गः रथस्य द्रुः । तत्पुरुषः समासः उकारान्तः
9 अतिमुक्तक अतिमुक्तकः पुंलिङ्गः अतिशयितो मुक्तो विस्तारोऽस्य । वञ्जुलः = वच्यते । , चित्रकृत् = चित्रं करोति। अकारान्तः