स्यन्दनः

सुधाव्याख्या

स्यन्दते । ‘स्यन्दू प्रस्रवणे' (भ्वा० आ० से०) । ‘बहुलमन्यत्रापि’ (उ० २.७८) इति युच् । ‘स्यन्दनं तु स्मृतं क्लीबे रथाङ्गे तिनिशे नरि' इति रभसः । स्यन्दनं तु स्नुतौ नीरे, तिनिशे ना, रथेऽस्त्रियाम् ॥