मन्दारः

सुधाव्याख्या

मन्दा अरा यस्य । मन्दमृच्छति वा । ‘ऋ गतौ' (भ्वा० प० से०) । ‘कर्मण्यण्' (३.२.१) । यद्वा मन्दते । ‘मदि स्तुत्यादौ’ (भ्वा० आ० से०) । ‘अङ्गिमदिमन्दिभ्य आरन्’ (उ० ३.१३४) ॥