पारिभद्रः

सुधाव्याख्या

नियमयति । ‘यम उपरमे' (भ्वा० प० से०) । पृषोदरादिः (६.३.१०९) । निंवति । ‘णिवि सेचने' (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । बवयोरैक्यम् । कर्मणि घञ् (३.३.१९) वा । निम्बसंज्ञकस्तरुः । शाकपार्थिवादिः (वा० २.१.६९) ॥