अमरकोशः


श्लोकः

धमन्यञ्जनकेशी च हनुर्हट्टविलासिनी । शुक्तिः शङ्खः खुरः कोलदलं नखमथाढकी ॥ १३० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 धमनी धमनी स्त्रीलिङ्गः धम्यते । अनि उणादिः ईकारान्तः
2 अञ्चनकेशी अञ्चनकेशी स्त्रीलिङ्गः अञ्जनमिव केशा अस्याः ॥ बहुव्रीहिः समासः ईकारान्तः
3 हनु हनुः स्त्रीलिङ्गः हन्ति । उणादिः उकारान्तः
4 हट्टविलासिनी हट्टविलासिनी स्त्रीलिङ्गः हट्टे विलसति तच्छीला । णिनि कृत् ईकारान्तः
5 शुक्ति शुक्तिः स्त्रीलिङ्गः शोचति । क्तिच् कृत् इकारान्तः
6 शङ्ख शङ्खः पुंलिङ्गः शाम्यति । उणादिः अकारान्तः
7 खुर खुरः पुंलिङ्गः खुरति । कृत् अकारान्तः
8 कोलदल कोलदलम् नपुंसकलिङ्गः कोलस्य वदर्या इव दलम् ॥ तत्पुरुषः समासः अकारान्तः
9 नख नखम् नपुंसकलिङ्गः न खनति । कृत् अकारान्तः
10 आढकी आढकी स्त्रीलिङ्गः आढकमस्त्यस्याः अच् तद्धितः ईकारान्तः