हट्टविलासिनी

सुधाव्याख्या

हट्टे विलसति तच्छीला । ‘लस क्रीडायाम्' (भ्वा० प० से०) । ‘सुपि-' (३.२.७८) इति णिनिः ॥


प्रक्रिया

धातुः - लसँ श्लेषणक्रीडनयोः


लस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हट्ट + ङि + विलस् + णिनि - सुप्यजातौ णिनिस्ताच्छिल्ये 3.2.78, उपपदमतिङ् 2.2.19
हट्ट + विलस् + णिनि - सुपो धातुप्रातिपदिकयोः 2.4.71
हट्ट + विलस् + इन् - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
हट्ट + विलास् + इन् - अत उपधायाः 7.2.116
हट्टविलासिन् + ङीप् - ऋन्नेभ्यो ङीप्‌ 4.1.5
हट्टविलासिन् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
हट्टविलासिनी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
हट्टविलासिनी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
हट्टविलासिनी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68