हनुः

सुधाव्याख्या

केचित्तु - इदं द्वयं पूर्वान्वयि – इत्याहुः ॥ हन्ति । ‘शॄस्वॄस्निहि-' (उ० १.१०) इत्युः । ‘हनुर्हट्टविलासिन्यां मृत्यावस्त्रे गदे स्त्रियाम् । द्वयोः कपोलावयवे' (इति मेदिनी) ॥