धमनी

सुधाव्याख्या

धमेति । धम्यते । ‘धमिः सौत्रः' । ‘अर्तिसृधृ-' (उ० २.१०२) इत्यनिः । ङीष् ग० (४.१.४५) वा । ‘धमनो नाऽनले भस्त्राध्मापकक्रूरयोस्त्रिषु । धमनी तु शिराहट्टविलासिन्योश्च योषिति' (इति मेदिनी) ॥