आढकी

सुधाव्याख्या

अथेति । आढकमस्त्यस्याः परिच्छेदकत्वेन । अर्शआद्यच् (५.२.१२७) । आढौकते वा । ‘ढौकृ गतौ' (भ्वा० आ० से०) । अच् (३.१.१३४) । पृषोदरादिः (६.३.१०९) । गौरादिः (४.१.४१) । ‘आढकी तु तुवर्यां स्त्री परिमाणान्तरे त्रिषु' (इति मेदिनी) ॥