अमरकोशः


श्लोकः

गाङ्गेरुकी नागबला झषा ह्रस्वगवेधुका । धामार्गवो घोषक: स्यान्महाजाली स पीतकः ॥ ११७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गाङ्गेरुकी गाङ्गेरुकी स्त्रीलिङ्गः गाङ्गं जलमीरयति । तत्पुरुषः समासः ईकारान्तः
2 नागबला नागबला स्त्रीलिङ्गः नागानां हस्तिनां बला ॥ तत्पुरुषः समासः आकारान्तः
3 झषा झषा स्त्रीलिङ्गः झषति वातम् । अच् कृत् आकारान्तः
4 ह्रस्वगवेधुका ह्रस्वगवेधुका स्त्रीलिङ्गः गवि भूमावेधते । तत्पुरुषः समासः आकारान्तः
5 धामार्गव धामार्गवः पुंलिङ्गः धाम ऋच्छति । तत्पुरुषः समासः अकारान्तः
6 घोषक घोषकः पुंलिङ्गः घोषति । अच् कृत् अकारान्तः
7 महाजाली महाजाली स्त्रीलिङ्गः महती चासौ जाली च ॥ तत्पुरुषः समासः ईकारान्तः