धामार्गवः

सुधाव्याख्या

धाम ऋच्छति । ‘ऋ गतौ' (भ्वा० प० अ०) । ‘अन्येभ्योऽपि' (३.२.७५) इति विच् । धामार् चासौ गौश्च । ‘गोरतद्धितलुकि’ (४.४.९२) इति टच् । ‘धामार्गवस्तु पुंसि स्यादपामार्गे च घोषके' (इति मेदिनी) ॥


प्रक्रिया

धातुः - ऋ गतौ


धाम + सु + ऋ + विच् - अन्येभ्योऽपि दृश्यन्ते 3.2.75, उपपदमतिङ् 2.2.19
धाम + ऋ + विच् - सुपो धातुप्रातिपदिकयोः 2.4.71
धाम + अर् + विच् - सार्वधातुकार्धधातुकयोः 7.3.84
धाम + अर् + व् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धाम + अर् - वेरपृक्तस्य 6.1.67
धामार् - अकः सवर्णे दीर्घः 6.1.101
धामार् + सु + गो + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
धामार्गो + टच् - गोरतद्धितलुकि 5.4.92
धामार्गो + अ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
धामार्ग् + अव् + अ - एचोऽयवायावः 6.1.78
धामार्गव + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
धामार्गव + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धामार्गव + रु - ससजुषो रुः 8.2.66
धामार्गव + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
धामार्गवः - खरवसानयोर्विसर्जनीयः 8.3.15