महाजाली

सुधाव्याख्या

महेति । जालयति । ‘जल आच्छादने' चुरादिः । पचाद्यच् । (३.१.१३४) । गौरादिः (४.१.४१) । महती चासौ जाली च ॥


प्रक्रिया

धातुः - जलँ अपवारणे


जल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
जल् + णिच् - सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् 3.1.25
जल् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
जाल् + इ - अत उपधायाः 7.2.116
जाल् + इ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
जाल् + अच् - णेरनिटि 6.4.51
जाल् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
जाल + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
जाल + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
जाल् + ई - यस्येति च 6.4.148
महत् + सु + जाली + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
महत् + जाली - सुपो धातुप्रातिपदिकयोः 2.4.71
महाजाली - आन्महतः समानाधिकरणजातीययोः 6.3.46
महाजाली + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
महाजाली + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
महाजाली - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68