ह्रस्वगवेधुका

सुधाव्याख्या

गवि भूमावेधते । ‘एध वृद्धौ' (भ्वा० आ० से०) । बाहुलकादुः । ‘संज्ञायां कन्’ (५.३.७५) । ह्रस्वा चासौ गवेधुका च ॥


प्रक्रिया

धातुः - एधँ वृद्धौ


एध् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गो + ङि + एध् + उ - बाहुलकात् ।, उपपदमतिङ् 2.2.19
गो + एध् + उ - सुपो धातुप्रातिपदिकयोः 2.4.71
ग् + अव् + एधु - एचोऽयवायावः 6.1.78
गवेधु + सु + कन् - संज्ञायां कन् 5.3.75
गवेधु + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
गवेधुक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गवेधुक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
गवेधुक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
गवेधुका - अकः सवर्णे दीर्घः 6.1.101
ह्रस्वा + सु + गवेधुका + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
ह्रस्वा + गवेधुका - सुपो धातुप्रातिपदिकयोः 2.4.71
ह्रस्वगवेधुका - स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु 6.3.34
ह्रस्वगवेधुका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
ह्रस्वगवेधुका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ह्रस्वगवेधुका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68