गाङ्गेरुकी

सुधाव्याख्या

गेति । गाङ्गं जलमीरयति । ‘ईर गतौ क्षेपणे च’ (अ० आ० से०) । ‘मृगय्वादयश्च' (उ० १.३७) इति साधुः । कन् (५.३.७५) । गौरादिः (४.१.४१) ॥


प्रक्रिया

धातुः - ईरँ गतौ कम्पने च


ईर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गाङ्ग + अम् + ईर् + कु - मृगय्वादयश्च (१.३७) । उणादिसूत्रम् ।, उपपदमतिङ् 2.2.19
गाङ्ग + ईर् + कु - सुपो धातुप्रातिपदिकयोः 2.4.71
गाङ्ग + ईर् + उ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गाङ्गेरु - आद्गुणः 6.1.87
गाङ्गेरु + सु + कन् - संज्ञायां कन् 5.3.75
गाङ्गेरु + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
गाङ्गेरु + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9व्
गाङ्गेरुक + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
गाङ्गेरुक + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8 तस्य लोपः 1.3.9
गाङ्गेरुक् + ई - यस्येति च 6.4.148
गाङ्गेरुकी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गाङ्गेरुकी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गाङ्गेरुकी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68