अमरकोशः


श्लोकः

कदली वारणवुसा रम्भा मोचांशुमत्फला । काष्ठीला मुद्गपर्णी तु काकमुद्गा सहेत्यपि ॥ ११३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कदली कदली स्त्रीलिङ्गः कन्दते । कल उणादिः ईकारान्तः
2 वारणवुसा वारणवुसा स्त्रीलिङ्गः वारणानां वुसा । तत्पुरुषः समासः आकारान्तः
3 रम्भा रम्भा स्त्रीलिङ्गः रभति । अच् कृत् आकारान्तः
4 मोचा मोचा स्त्रीलिङ्गः मुञ्चति । अच् कृत् आकारान्तः
5 अंशुमत्फला अंशुमत्फला स्त्रीलिङ्गः अंशुमन्ति सूक्ष्मावयववन्ति फलान्यस्याः । बहुव्रीहिः समासः आकारान्तः
6 काष्ठीला काष्ठीला स्त्रीलिङ्गः काष्ठिना इल्यते । तत्पुरुषः समासः आकारान्तः
7 मुद्गपर्णी मुद्गपर्णी स्त्रीलिङ्गः मुद्गः पर्णमस्याः । बहुव्रीहिः समासः ईकारान्तः
8 काकमुद्गा काकमुद्गा स्त्रीलिङ्गः काकेनेषज्जलेन मुदं गच्छति । तत्पुरुषः समासः आकारान्तः
9 सहा सहा स्त्रीलिङ्गः सहते । अच् कृत् आकारान्तः