काकमुद्गा

सुधाव्याख्या

ईषत् कम् । 'ईषदर्थे च' (६.३.१०५) इति कोः कादेशः । काकेनेषज्जलेन मुदं गच्छति । ‘गमश्च' (३.२.४७) इति डः । यद्वा काका मुद्गा हर्षप्राप्ता यस्याम् ॥


प्रक्रिया

धातुः - गमॢँ गतौ


ईषत् + क
का + क - ईषदर्थे 6.3.105
गमॢँ गतौ
गम् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काक + टा + मुद् + सु + गम् + ड - गमश्च 3.2.47, उपपदमतिङ् 2.2.19
काक + मुद् + गम् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
काक + मुद् + गम् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
काक + मुद् + ग् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
काकमुद्ग + टाप् - अजाद्यतष्टाप्‌ 4.1.4
काकमुद्ग + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
काकमुद्गा - अकः सवर्णे दीर्घः 6.1.101
काकमुद्गा + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
काकमुद्गा + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काकमुद्गा - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68