रम्भा

सुधाव्याख्या

रभति । ‘रभ राभस्ये' (भ्वा० आ० अ०)। पचाद्यच् (३.१.१३४) । ‘रभेरशब्लिटो:' (७.१.६३) इति नुम् । रभ्यते वा । घञ् (३.३.१९) । मुकुटस्तु–रभन्तेऽनया । घञर्थे कः' (वा० ३.३.५८) इत्याह । तन्न । परिगणनात् कस्याप्राप्तेः । सति तु के ‘अनिदिताम्-' (६.४.२४) इति नलोपप्रसङ्गाच्च । 'रम्भा कदल्यप्सरसोर्ना वेणौ वारणान्तरे' (इति मेदिनी) ॥