वारणवुसा

सुधाव्याख्या

वारणानां वुसा । वुस्यति वुस्यते वा। ‘वुस उत्सर्गे' (दि० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । भिदाद्यङ् (३.३.१०४) वा । ‘घञर्थे कः' इति परिगणनान्नेह प्रवर्तते ॥ ‘वुषा' इति मूर्धन्यान्तः इति केचित् ॥