काष्ठीला

सुधाव्याख्या

काष्ठिना इल्यते । ‘इल स्वप्नक्षेपणयो:' (तु० प० से०) । घञ् (३.३.१९) ॥


प्रक्रिया

धातुः - इलँ स्वप्नक्षेपणयोः


इल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काष्ठि + टा + इल् + घञ् - अकर्तरि च कारके संज्ञायाम् 3.3.19, उपपदमतिङ् 2.2.19
काष्ठि + इल् + घञ् - सुपो धातुप्रातिपदिकयोः 2.4.71
काष्ठि + इल् + अ - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
काष्ठील - अकः सवर्णे दीर्घः 6.1.101
काष्ठील + टाप् - अजाद्यतष्टाप्‌ 4.1.4
काष्ठील + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
काष्ठीला - अकः सवर्णे दीर्घः 6.1.101
काष्ठीला + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
काष्ठीला + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
काष्ठीला - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68