कदली

सुधाव्याख्या

कदेति । कन्दति । कन्द्यते वा । ‘कदि आह्वाने रोदने च’ (भ्वा० आ० से०) । वृषादित्वात् (उ० १.१०६) साधुः (आगमशासनमनित्यम्) । केन वायुना दल्यते वा । ‘दल विशरणे' (भ्वा० प० से०) । ‘खनो घ च' (३.३.१२५) इति घः । गौरादिः (४.१.४१) । यत्तु - घञर्थे कः (वा० ३.३.५८) - इति मुकुटः । तन्न । परिगणनात् । मुकुटस्तु कदे: सौत्रात् ‘कदल्यादयः' इत्यलच् – इत्याह । तन्न । कदेः सौत्रस्य धातोरभावात् । उज्ज्वलदत्ताद्युणादिवृत्तिषूक्तसूत्रस्यादर्शनात् । ‘कदला कदलौ पृश्न्यां कदली - कदलौ पुनः । रम्भावृक्षेऽथ कदली पताकामृगभेदयोः । कदला डिम्बिकायां च शाल्मलीभूरुहेऽपि च (इति मेदिनी) ॥ अजादित्वात् (४.१.४) टापि कदला । ‘कदलश्च कदल्यसौ' इति व्याडि: ॥