अमरकोशः


श्लोकः

गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा । योग्यमृद्धिः सिद्धिलक्ष्म्यौ वृद्धेरप्याह्वया इमे ॥ ११२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 गोपी गोपी स्त्रीलिङ्गः गोपायति । अच् कृत् ईकारान्तः
2 श्यामा श्यामा स्त्रीलिङ्गः श्यायते मक् उणादिः आकारान्तः
3 शारिवा शारिवा स्त्रीलिङ्गः शरणम्। इण् उणादिः आकारान्तः
4 अनन्ता अनन्ता स्त्रीलिङ्गः न अन्तोऽस्याः । तत्पुरुषः समासः आकारान्तः
5 उत्पलशारिवा उत्पलशारिवा स्त्रीलिङ्गः उत्पलमस्त्यस्याः । अच् तद्धितः आकारान्तः
6 योग्य योग्यम् नपुंसकलिङ्गः युज्यते । ण्यत् कृत् अकारान्तः
7 ऋद्धि ऋद्धिः स्त्रीलिङ्गः ऋध्नोति । तिच् कृत् इकारान्तः
8 सिद्धि सिद्धिः स्त्रीलिङ्गः सिध्यति । तिच् कृत् इकारान्तः
9 लक्ष्मी लक्ष्मीः स्त्रीलिङ्गः लक्षयति । उणादिः ईकारान्तः
10 वृद्धि वृद्धिः स्त्रीलिङ्गः वर्धतेऽनया । तिच् कृत् इकारान्तः